🌺

गणेशाष्टकम्

Ganesha Ashtakam

अष्टकम् · 🐘 श्री गणेश · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as गणेशाष्टकम् · Ganesha Ashtakam

Sanskrit text.

अक्षर का आकार

यतोऽनंतशक्तेरन्ताश्चजीवा यतो निर्गुणादप्रमेया गुणास्ते ।
यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः १

यतश्चाविरासीज्जगत्सर्वमेतत्तथान्जासनो विश्वगो विश्वगोप्ता।
तथेंद्रादयो देवसंघा मनुष्याः सदा तं गणेशं नमामो भजामः ॥२॥

यतो वह्निभानू भवो भूर्जलं च यतः सागराचंद्रमा व्योम वायुः ।
यतः स्थावरा जंगमा वृक्षसंघाः सदा तं गणेशं नमामो भजामः ॥ ३ ॥

यतो दानवाः किन्नरा यक्षसंघा यतश्चारणा वारणाः श्वापदाश्च।
यतः पक्षिकीटा यतो वीरुधश्च सदा तं गणेशं नमामो भजामः ॥४॥

यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतः संपदो भक्तसंतोषिकाः स्युः।
यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः॥५॥

यतः पुत्रसंपद्यतो वाञ्छितार्थो यतोऽभक्तविघ्नास्तथाऽनेकरूपाः।
यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः॥ ६ ॥

यतोऽनंतशक्तिः स शेषो बभूव घराधारणेऽनेक रूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥ ७ ॥

यतो वेदवाचो विकुंठा मनोभिः सदा नेति नेतीति यत्ता गृणंति ।
परब्रह्मरूपं चिदानंदभूतं सदा तं गणेशं नमामो भजामः ॥ ८ ॥

पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।
त्रिसंध्यं त्रिदिनं तस्य सर्वकार्ये भविष्यति ॥९॥

यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यो तु सोऽष्टसिद्धीरवाप्नुयात् ॥ १० ॥

यः पठेन्मासमात्रं तु दशवारं दिनेदिने ।
स मोचयेद्बंन्धगतं राजवध्यं न संशयः ॥ ११ ॥

विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वांछिताँल्लभ​ते सर्वानेकविंशतिवारतः ॥ १२ ॥

यो जपेत्परया भक्त्या गजाननपरो नरः ।
एवमुक्त्वा ततो देवश्चांन्तर्धानं गतः प्रभुः ॥ १३ ॥

इति श्री गणेश पुराणे उपासना खण्डे गणेशाष्टकं सम्पूर्णम्

स्रोत · Source

Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#ganeshastotrani

सम्बन्धित पाठ · Related reading

सम्बन्धित अनुष्ठान · The ritual this belongs to

Ganesh Puja is performed before every other ritual, and at Ganesh Chaturthi in its own right.

Ganesh Puja →or find a pandit
और अष्टकम्पुस्तकालयश्री गणेश