गोपीचन्दनोपनिषत्
उपनिषद् · 🦚 श्री कृष्ण · Sanskrit · ⏱ 4 min
अन्य नाम · Also known as गोपीचन्दनोपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
ॐ नमस्कृत्य भगवन्तं नारदः सर्वेश्वरं वासुदेवं पप्रच्छ । श्रीभगवन् ऊर्ध्वपुण्ड्रविधिं द्रव्यमन्त्रस्थलादिसहितं मे ब्रूहीति । तं होवाच भगवान् वासुदेवो वैकुण्ठस्थानोद्भवं मम प्रीतिकरं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुचन्दनं वैकुण्ठस्थानादाहृत्य द्वारकायां मया प्रतिष्ठितं चन्दनं कुङ्कुमादिसहितंविष्णुचन्दनं ममाङ्गे प्रतिदिनमालिप्तं गोपीभिः प्रक्षालनात् गोपीचन्दनमाख्यातं मदङ्गलेपनं पुण्यं चक्रतीर्थान्तःस्थितं चक्रसमायुक्तं पीतवर्णM मुक्तिसाधनं भवति ॥ अथ गोपीचन्दनं नमस्कृत्योद्धृत्य,
गोपीचन्दन पापघ्न विष्णुदेहसमुद्भव ।
चक्राङ्कित नमस्तुभ्यं धारणान्मुक्तिदो भव ॥
इति प्रार्थनम् । "इमम्मे गङ्गे" इति जलमादाय, "विष्णोर्नुकं" इति मर्दयेत् । "अतो देवा अवन्तु नः" इत्येताभिर्ऋग्भिर्विष्णुगायत्र्या त्रिवारमभिमन्त्रय,
शंखचक्रगदापाणे द्वारकानिलयाच्युत ।
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम् ॥
इति मां ध्यात्वा, गृहस्थो ललाटादिस्थलेष्वनामिकाङ्गुल्या विष्णुगायत्र्या केशवादिद्वादशनामभिर्वा धारयेत् । ब्रह्मचारी वानप्रस्थो ललाटकण्ठहृदयबाहुमूलेषु वैष्णवगायत्र्या कृष्णादिपञ्चनाभिर्वा धारयेत् । यतिस्तर्जन्या शिरोललाटहृदयेषु प्रणवेन धारयेत् । ब्रह्मादयस्त्रयो मूर्तयस्तिस्रो व्याहृतयस्त्रीणि छन्दांसि त्रयो लोकाः त्रयो वेदास्त्रयः स्वराः त्रयोऽग्नयो ज्योतिष्मन्तस्त्रयः कालास्तिस्रोऽवस्थास्त्रय आत्मानः पुण्ड्रास्त्रयः ऊर्ध्वाः अकारोकारमकाराः एते सर्वे प्रणवमयोर्ध्वपुण्ड्रलयात्मकास्तदेतदोमित्येकधा समभवन् । परमहंसो ललाटे प्रणवेनैकमूर्ध्वपुण्ड्रं वा धारयेत् । तत्र दीपप्रकाशं स्वमात्मानं परं ब्रह्मैवाहमस्मीति भावयन् योगी मत्सायुज्यमवाप्नोति ॥
अथान्यो हृदयस्योर्ध्वं पुण्ड्रं मध्ये बहुहृदयकमलमध्ये वा स्वमात्मानं भावयेत् ॥
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ।
गोपी का । का नाम संरक्षणी । कुतः संरक्षणी । लोकस्य नरकात् मृत्योर्महाभयाच्च संरक्षणी । चन्दनं तुष्टिकरणम् । किं तुष्टिकरणम् । ब्रह्मानन्दकारणम् । य एवं विद्वानेतदाख्यापयेत् । य एतच्च धारयेद्गोपीचन्दनमृत्तिकानिरुक्त्यानि (?) धारणमात्रेण च ब्रह्मलोके महीयते ब्रह्मलोके महीयत इति ॥
गोप्यो नाम विष्णुपत्न्यस्तासां चन्दनं आह्लादनम् । कश्चाह्लाद एष ब्रह्मानन्दरूपः । काश्च विष्णुपत्न्यो गोप्यो नाम जगत्सृष्टिस्थित्यन्तकारिण्यः प्रकृतिमहदहमाद्या महामायाः । कश्च विष्णुः परं ब्रह्मैव विष्णुः । कचाह्लादो गोपीचन्दनसंसक्तमानुषाणां पापसंहरणाच्छुद्धान्तःकरणानां ब्रह्मज्ञानप्राप्तिश्च य एवं वेद । इत्युपनिषत् ॥
गोपीत्यग्र उच्यताम् । चन्दनं तु ततः पश्चात् । गोपीत्यक्षरद्वयम् । चन्दनं त्र्यक्षरम् । तस्मादक्षरपञ्चकम् । य एवं विद्वान् गोपीचन्दनं धारयेदक्षयं पदमाप्नोति । पंचत्वं न स पश्यति । ततोऽमृतत्वमश्नुत इति । अथ मायाशबलितब्रह्मासीत्ततश्च महदाद्या ब्रह्मणो महामायासंमीलनात् पंचभूतेषु गन्धवती पृथिव्यासीत् । पृथिव्याश्च वैभवाणवभेदाः पीतवर्णा मृदो जायन्ते । लोकानुग्रहार्थं मायासहितं ब्रह्म संभोगवशादस्य चन्दनस्य वैभवं य एवं विद्वान् यतिहस्ते दद्यादनुग्रहार्थं मायापल्लवः सर्वमायुरेति ॥ ततः प्राजापत्यं रायस्पोषं गौपत्यं यच्च एतद्रहस्यं सायंप्रातर्ध्यायेदहोरात्रकृतं पापं नाशयति मृतो मोक्षमश्नुते मृतो मोक्षमश्नुत इति ॥
गोपीचन्दनपङ्केन ललाटं यस्तु लेपयेत् ।
एकदण्डी त्रिदण्डी वा स वै मोक्षं समश्नुते ॥ १ ॥
गोपीचन्दनलिप्ताङ्गो यं यं पश्यति चक्षुषा ।
तं तं पूतं विजानीयाद्राजभिः सत्कृतो भवेत् ॥ २ ॥
ब्रह्मघ्नश्च कृतघ्नश्च गोघ्नश्च गुरुतल्पगः ।
तेषां पापानि नश्यन्ति गोपीचन्दनधारणात् ॥ ३ ॥
गोपीचन्दनलिप्ताङ्गो म्रियते यत्र कुत्रचित् ।
अभिव्याप्यायतो भूत्वा देवेन्द्रदमनुते ॥ ४ ॥
गोपीचन्दनलिप्ताङ्गं पुरुषं य उपासते ।
एवं ब्रह्मादयो देवाः सन्मुखास्तमुपासते ॥ ५ ॥
गोपीचन्दनलिप्ताङ्गः पुरुषो येन पूज्यते ।
विष्णुपूजितभूतित्वाद्विष्णुलोके महीयते ॥ ६ ॥
सदाचारः शुभाकल्पो मिताहारो जितेन्द्रियः ।
गोपीचन्दनलिप्ताङ्गः साक्षाद्विष्णुमयो भवेत् ॥ ७ ॥
गोपीचन्दनलिप्ताङ्गो व्रतं यस्तु समाचरेत् ।
ततः कोटिगुणं पुण्यमित्येवं मनुरब्रवीत् ॥ ८ ॥
गीपीचन्दनलिप्ताङ्गैर्जपदानादिकं कृतम् ।
न्यूनं संपूर्णतां याति विधानेन विशेषतः ॥ ९ ॥
गोपीचन्दनमायुष्यं बलारोग्यविवर्धनम् ।
कामदं मोक्षदं चैव इत्येवं मुनयोऽब्रुवन् ॥ १० ॥
अग्निष्टोमसहस्राणि वाजपेयशतानि च ।
तेषां पुण्यमवाप्नोति गोपीचन्दनधारणात् ॥ ११ ॥
गोपीचन्दनदानस्य चाश्वमेधसमं फलम् ।
न गङ्गया समं तीर्थं न शुद्धिर्गोपिचन्दनात् ॥ १२ ॥
बहुनात्र किमुक्तेन गोपीचन्दनमण्डनम् ।
न तत्तुल्यं भवेल्लोके नात्र कार्या विचारणा ॥ १३ ॥
चन्दनं वापि गोपीनां केलिकुङ्कुमसम्भवम् ।
मण्डनात् पावनं नॄणां भुक्तिमुक्तिफलप्रदम् ॥ १४ ॥
कृष्णगोपीरतोद्भूतं पापघ्नं गोपिचन्दनम् ।
तत्प्रदानात्सर्ववेदचतुर्वर्गफलप्रदम् ॥ १५ ॥
तिलमात्रप्रदानेन काञ्चनाद्रिसमं फलम् ।
कुङ्कुमं कृष्णगोपीनां जलक्रीडासु संभृतम् ॥ १६ ॥
गोपीचन्दनमित्युक्तं द्वारवत्यां सुरेश्वरैः ।
कृष्णगोपीजलक्रीडाकुङ्कुमं चन्दनैर्युतम् ॥ १७ ॥
तिलमात्रं प्रदायेदं पुनात्यादशमं कुलम् ।
गोपीचन्दनखण्डं तु चक्राकारं सुलक्षणम् ।
विष्णुरूपमिदं पुण्यं पावनं पीतवर्णकम् ॥ १८ ॥
आपो ह वाग्रे आसन् । तत्र प्रजापतिर्वायुर्भूत्वाश्राम्यतेदं सृजेयमिति । स तपोऽतप्यत । तत ओङ्कारमपश्यत्ततो व्याहृतीस्ततो गायत्री गायत्र्या वेदास्तैरिदमसृजत् । धूममार्गविसृतं हि वेदार्थमभिसन्धाय चतुर्दश लोकानसृजत् । तत उपनिषदः श्रुतय: आविर्बभूवुः । अर्चिर्मार्गविसृतं वेदार्थमभिसन्धाय सर्वान् वेदान् सरहस्योपनिषदङ्गान् ब्रह्मलोके स्थापयामास । स एताश्चोपनिषद्वैवस्वतेन्तरे सगुणं ब्रह्म विधिनानन्दैकरूपं पुरुषोत्तमरूपेण मथुरायां वसुदेवसद्मन्याविर्भविष्यति । तत्रभवत्यः सर्वलोकैः कृष्णसौन्दर्यं क्रीडाभोगागोपिकास्वरूपैः परब्रह्मानन्दैकरूपं कृष्णं भजिष्यथ । तत्र श्लोकौ ---
इति ब्रह्मवरं लब्ध्वा श्रुतयो ब्रह्मलोकगाः ।
कृष्णमाराधयामासुर्गोकुले धर्मसंकुले ॥
श्रीकृष्णाख्यपरं ब्रह्म गोपिकाः श्रुतयोऽभवन् ।
एतत्संभोगसंभूतं चन्दनं गोपिचन्दनम् । इति ॥
इत्यथर्ववेदोक्तगोपीचन्दनोपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
श्रीकृष्ण की आरती, जिसमें गिरिधर कृष्णमुरारी के मोर-मुकुट, मुरली और वृन्दावन की छवि का वर्णन है।
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.